|
|
 |
 |
|
|
८ कर्णपर्व.jpg)
॥ श्रीः ॥
8.92. अध्यायः 092
Mahabharata - Karna Parva - Chapter Topics
कर्णार्जुनसमाश्रयात् लोकक्षयभीरुणा प्रजापतिना ब्रह्माणं प्रति उभयोः साम्येन जयप्रार्थना॥ 1 ॥ इन्द्रेण सकारणनिरूपणमर्जुनस्यैव जये प्रार्थिते ब्रह्मेशानाभ्यां तदङ्गीकारे देवैर्हर्षात्पुष्पवर्षणम्॥ 2 ॥

Mahabharata - Karna Parva - Chapter Text
सञ्जय उवाच। 8-92-0x(5054)(59530)
प्रजापतिस्तु तं दृष्ट्वा देवभागं समागतम्।
अब्रवीत्तु ततो राजन्पश्यतो वै स्वयंभुवः॥ 8-92-1(59531)
उभावतिरथौ शूरावुभौ दृढपराक्रमौ।
उभौ सदृशकर्माणौ वज्रिचक्रायुधौपमौ॥ 8-92-2(59532)
अहो बत महद्युद्धं कर्णार्जुनसमागमे।
भविष्यति महाघोरं वृत्रवासवयोरिव॥ 8-92-3(59533)
प्रजापतिरथोक्त्वैवं स्वयम्भुवमचोदयत्।
समोऽस्तु विजयः काममुभयोर्नरसिंहयोः॥ 8-92-4(59534)
कर्णार्जुनविवादेन मा नश्येदखिलं जगत्।
स्वयंभो ब्रूहि तद्वाक्यं समोऽस्तु विजयोऽनयोः॥ 8-92-5(59535)
एवमुक्तस्तु भगवाञ्जये ताभ्यामनिश्चिते।
इत्यब्रवीन्महाराज महाब्रह्मा प्रजापतिम्॥ 8-92-6(59536)
द्वावप्येतौ हि कृतिनौ द्वावप्यतिबलोत्कटौ।
भविष्यत्यनयोर्युद्धं त्रैलोक्यस्य भयावहम्॥ 8-92-7(59537)
ततः प्रजापतिं तत्र सहस्राक्षोऽभ्यचोदयत्।
विजयो ध्रुव एवास्तु पाण्डवस्य महात्मनः॥ 8-92-8(59538)
मनस्वी बलवाञ्शूरः कृतविद्यस्तपोधनः।
विभर्ति च महातेजा धनुर्वेदमशेषतः॥ 8-92-9(59539)
पार्थः सर्वगुणोपेतो देवकार्यमिदं यतः।
क्लिश्यन्ते पाण्डवा नित्यं वनवासादिभिर्भृशं॥ 8-92-10(59540)
सम्पन्नस्तपसा चैव पर्याप्तः पुरुषर्षभः।
अतिक्रामेच्च माहात्म्याद्दिष्टमप्यविचारयन्॥ 8-92-11(59541)
अतिक्रमे च लोकानामभावो नियतो भवेत्।
नावस्थानं च पश्यामि क्रुद्धयोः कृष्णयोः क्वचित्॥ 8-92-12(59542)
स्रष्टारौ जगतश्चैतौ ततश्च पुरुषर्षभौ।
नरनारायणावेतौ पुराणावृषिसत्तमौ॥ 8-92-13(59543)
अनियम्यौ नियन्तारौ जगतः पुरुषर्षभौ।
[नैतयोस्तु समः कश्चिद्दिवि वा मानुषेषु वा॥ 8-92-14(59544)
अनुगम्यास्त्रयो लोकाः सह देवर्षिचारणैः।
सर्वदेवगणाश्चापि सर्वभूतानि यानि च।
अनयोस्तु प्रभावेन वर्तते निखिलं जगत्॥] 8-92-15(59545)
कामं तु सुकृताँल्लोकानाप्नोतु पुरुषर्षभः।
कर्णो वैकर्तनः शूरो विजयस्त्वस्तु कृष्णयोः॥ 8-92-16(59546)
वसूनां समलोकत्वं मरुतां वासमाप्नुयात्।
सहितो द्रोणभीष्माभ्यां नाकपृष्ठे महीयताम्॥ 8-92-17(59547)
`क्लेशितो हि वने पार्थो दिर्घकालं पितामह।
तस्मादेष जयेद्युद्धे तपसाऽभ्यधिकोऽर्जुनः॥ 8-92-18(59548)
पूर्वं भगवता प्रोक्तः कृष्णयोर्विजयो ध्रुवः।
तत्तथास्तु नमस्तेऽस्तु प्रमो ब्रूहि पितामह॥ 8-92-19(59549)
तत्सहस्राक्षवचनं निशम्य भगवान्प्रभुः।
नोवाच तज्जयं तुल्यं तयोः कर्णकिरीटिनोः॥ 8-92-20(59550)
तस्मादाशां गतः शक्रस्तूष्णीम्भूते पितामहे।
विजयः पाण्डवेयस्य कर्णस्य च वधो भवेत्॥ 8-92-21(59551)
ब्रह्मेशानौ ततो वाक्यमूचतुर्भुवनेश्वरम्।
विजयो ध्रुव एवास्तु पाण्डवस्य महात्मनः॥ 8-92-22(59552)
मनस्वी जयतां शूरः कृतविद्यस्तपोधनः।
बिभर्ति च महातेजा धनुर्वेदमशेषतः॥ 8-92-23(59553)
अतिक्रामेच्च माहात्म्याद्दिष्टमप्यविचारयन्।
अतिक्रमे च लोकानामभावो नियतो भवेत्॥ 8-92-24(59554)
न च विद्म ह्यवस्थानं क्रुद्धयोः कृष्णयोः क्वचित्।
स्रष्टारौ जगतश्चैव सतश्च पुरुषर्षभौ॥ 8-92-25(59555)
कामं तु सुकृताँल्लोकान्प्राप्नोत्वेष परन्तपः।
कर्णो वैकर्तनः शूरो विजयस्तु नरे ध्रुवः॥ 8-92-26(59556)
तथोक्ते देवदेवाभ्यां सहस्राक्षोऽब्रवीद्वचः।
आमन्त्र्य सर्वभूतानि ब्रह्मेशानानुशासनात्॥ 8-92-27(59557)
श्रुतं भवद्भिर्यत्प्रोक्तं भगवद्भ्यां जगद्धितम्।
तत्तथा व्येतु ते रोगः शमाप्नुत विमन्यवः॥ 8-92-28(59558)
इति श्रुत्वेन्द्रवचनं सर्वभूतानि मानिष।
विस्मितान्यभवन्राजन्पूजयाञ्चक्रिरे तदा।
नोचुस्तदा जयं तुल्यं तयोः पुरुषसिंहयोः॥ 8-92-29(59559)
व्यसृजंश्च सुगन्धीनि पुष्पवर्षाणि हर्षिताः।
नानारूपाणि विबुधा देवतूर्याण्यवादयन्॥ 8-92-30(59560)
दिदृक्षवश्चाप्रतिमं द्वैरथं नरसिंहयोः।
विस्मयोत्फुल्लनयना नान्या बुबुधिरे क्रियाः॥ ॥ 8-92-31(59561)
इति श्रीमन्महाभारते कर्णपर्वणि सप्तदशदिवसयुद्धे द्विनवतितमोऽध्यायः॥ 92 ॥
Mahabharata - Karna Parva - Chapter Footnotes
8-92-11 दिष्टमपि दैवविहितमपि॥ 8-92-92 द्विनवतितमोऽध्यायः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|